सूर्यः
सूर्यः अस्माकं
जीवनदाता अस्ति।सः विश्वस्य आत्मा एव।सः सूर्यमालायाः केन्द्रः भवति।सर्वे ग्रहाः तं
परितः भ्रमन्ति। सूर्यकिरणैः वनस्पतयः रोहन्ति।यदा सूर्योदयः भवति तदा मानवाः तेषां
नित्यकार्याणि आरभन्ति।
सूर्यः प्रतिदिनम्
पूर्वदिशि उदयति अन्धकारं च दूरीकरोति।सूर्यस्य किरणाः आरोग्यवर्धकाः भवन्ति।सूर्यस्य
आतपेन सागरजलस्य बाष्पम् भवति बाष्पात् एव मेघाः भवन्ति।श्याममेघेभ्यः एव वर्षा भवति।
सूर्यस्य
देवतारूपेण पूजा भवति।वेदेषु अपि सूर्यस्य कृते अनेकाः ऋचाः भवन्ति।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें