पुस्तकालयः
पुस्तकालयः इति उक्ते पुस्तकानाम् आलयः ।शिक्षणक्षेत्रे पुस्तकानां
महत्त्वं सर्वे जानन्ति एव।सर्वे जनाः सर्वाणि पुस्तकानि क्रेतुं न शक्नुवन्ति अतः
पुस्तकालयस्य महत्वं विशेषरूपेण वर्तते।
विद्यालये,महाविद्यालये,विश्वविद्यालये सार्वजनिकस्थले पुस्तकानाम्
आवश्यक्ता अस्ति एव। ज्ञानपिपासुनां तृप्तिः पुस्तकालयं विना न सम्भवति। कथितमपि वर्तते-ज्ञानसमं
चक्षुः नास्ति।
अस्माकं विद्यालयेऽपि
एकः पुस्तकालयः वर्तते।तस्य एका पुस्तलयाध्यक्षा अपि अस्ति।सा अस्माकं कृते पठनाय पुस्तकानि
यच्छति ।तत्र भिन्नविषयान् अधिकृत्य पुस्तकानि भवन्ति।तत्र पाठकानां कृते विविधाःपत्रिकाः
मासिकानि अपि सन्ति।पुस्तकालये सर्वेजनाः तुष्णीं पठन्ति।छात्राः यथासमयम् अत्र पठनाय
आगच्छन्ति ।पुस्तकालये सुवव्यव्स्था भवति।पुस्तकानि यथास्थानं स्थापितानि भवन्ति।
अधुना तु पुस्तकालये
अपि सुचनाक्रान्तेः प्रभावः दृश्यते।नैकाः ग्रन्थाः अन्तर्जाले भवन्ति।दुर्लभग्रन्थानां
सान्द्रमुद्रिकां निर्माय तेषां रक्षणं पुस्तकालये भवति। अधुना तु पुस्तकानां महत्त्वं
सर्वे जानन्ति एव।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें