भारतस्य महान् सुपुत्रः डा.ए.पी.जे.अब्दुल-कलामः
डा.ए.पी.जे.अब्दुल-कलामः
न केवलं भारतस्य अपितु विश्वस्य प्रसिद्धः वैज्ञानिकः अस्ति।सः न केवलं वैज्ञानिकः
अपितु विनम्रः, मृदुभाषी,कविः,लोकप्रियः व्यक्तिः अस्ति। डा.ए.पी.जे.अब्दुल-कलाममहाशयस्य जन्म तामीलनाडुराज्यस्य
रामेश्वरनाम्नि नगरे सामान्यमुस्लीमपरिवारे अभवत्।तस्य पितुः नाम जैनुलबद्दीनः मातुः
नाम आशियम्मा च ।
सः तस्य प्राथमिकी
शिक्षा रामेश्वरनगरे एव गृहितवान्।तस्य उच्चशिक्षायाः विषयः विमानशास्त्रम् आसीत्।पृथ्वी-नाग-आकाश-अग्नि-इत्यादीनां
निर्माणे अस्य प्रमुखः योगदानः आसीत्।सः न केवलं वैज्ञानिकः अपितु आधुनिकः दार्शनिकः
अपि अस्ति। संस्कृतवाङ्गमयस्य प्रभावः तस्य लेखने स्पष्टमेव दृश्यते।
सः बालकेषु
अत्यंतप्रियः व्यक्तिमत्वः अस्ति।तस्य रक्षाक्षेत्रे महत्वपूर्णं कार्यं अवलोक्य भारतसर्वकारः
अस्मै “भारतरत्नम्” अयच्छत्।सः भरतस्य राष्ट्रपतिपदम्
अपि भूषितवान्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें