शनिवार, 9 नवंबर 2013

सूर्यः




 सूर्यः


सूर्यः अस्माकं जीवनदाता अस्ति।सः विश्वस्य आत्मा एव।सः सूर्यमालायाः केन्द्रः भवति।सर्वे ग्रहाः तं परितः भ्रमन्ति। सूर्यकिरणैः वनस्पतयः रोहन्ति।यदा सूर्योदयः भवति तदा मानवाः तेषां नित्यकार्याणि आरभन्ति।

सूर्यः प्रतिदिनम् पूर्वदिशि उदयति अन्धकारं च दूरीकरोति।सूर्यस्य किरणाः आरोग्यवर्धकाः भवन्ति।सूर्यस्य आतपेन सागरजलस्य बाष्पम् भवति बाष्पात् एव मेघाः भवन्ति।श्याममेघेभ्यः एव वर्षा भवति।

सूर्यस्य देवतारूपेण पूजा भवति।वेदेषु अपि सूर्यस्य कृते अनेकाः ऋचाः भवन्ति।

सिंहः



 सिंहः

      
सिंहः मृगाधिपः अस्ति। तस्य रूपः अपूर्वः विद्यते।    तस्य वर्णः कपिशः पीतः च अस्ति। तस्य चत्वारः पादाः सन्ति । तस्य पादेषु तीक्ष्णाः नखाः सन्ति।तस्य कर्णौ ह्र्स्वौ स्तः। तस्य शरीरः दीर्घः अस्ति। तस्य नेत्रे रात्रौ माणिक्यमेव प्रकाशते।तस्य ग्रीवायां विपुलः सटाभारः वर्तते।

सः हिस्त्रपशुः अस्ति। रात्रौ सः मृगयार्थम् अटति।सः सूर्यस्य आतपं न सहते।दिने सः गुहायां निद्रां करोति। सिंहस्य उपमा वीरपुरुषान् दीयते।सिंहस्य अनेकाः कथाः प्रसिद्धाः सन्ति।भक्तप्रह्लाद-नरसिंहयोः कथा सर्वे जानन्ति एव।

गुरुवार, 7 नवंबर 2013

देशभक्तः महाराणा प्रतापः



देशभक्तः महाराणा प्रतापः

महाराणा प्रतापः राजस्थानराज्ये स्थिते मेवाडराज्यस्य राजा आसीत् ।सः तु अतीव देशभक्तः आसीत् ।१५७६ तमे वर्षे हल्दीघाटी नामके स्थाने सः अकबरस्यसेनया सह युद्धम् कृतवान् ।अस्मिन् युद्धे सः पराजितः अभवत्।तस्यप्रसिद्धःअश्वःचेतकः अपि अस्मिन् युद्धे अमरत्।

अनन्तरम् प्रतापः दिश्वस्तैः सैनिकैः सह् राजप्रासादं परित्यज्य अटव्याम् अवसत्।सः वने स्थित्वा देशस्य स्वतंत्रतायै प्रयत्नशीलः आसीत्।वने प्रतापः निराशः आसीत्।तस्य पार्श्वे धनस्य सेनायाः अभावः आसीत्।प्रतापस्य वदनं दृष्ट्वा सैनिकाः अपि व्याकुलाः आसन्।अस्मिन् कठिनसमये प्रतापः देशत्यागं कर्तुम् इच्छति स्म। तस्य भटाः अपि  तेन सह देशत्यागं कर्तुम् इच्छति।

यावत् प्रतापः देशत्यागं कर्तुम् इच्छति तावत् एव् श्रेष्ठी भामाशाहः तस्य धनेन सह तत्र आगच्छति।भामाशाहः तस्य सम्पतिम् देशरक्षायै प्रतापाय यच्छति । प्रतापः धनं प्राप्य मेवाडस्य स्वतंत्रतायै उत्साहितः भवति । तत्र उपस्थिताः सैनिकाः  भामाशाहस्य प्रतापस्य च जयघोषं कुर्वन्ति।

प्रतापः तेन धनेन पुनः सेनायाः संगठनं करोति।पुनः मुगलसेनया सह युद्धं करोति।अस्मिन् युद्धे प्रतापः विजयी भवति।

प्रतापस्य वीरतया मेवाडः पुनः स्वतन्त्रः भवति।मेवाडस्य जनाः स्वगृहे दीपान् प्रज्वालयन्ति नृत्यन्ति गायन्ति च ।जनाः प्रतापस्य जयघोषम् अपि  कुर्वन्ति ।

भारतस्य महान् सुपुत्रः डा.ए.पी.जे.अब्दुल-कलामः



भारतस्य महान् सुपुत्रः डा.ए.पी.जे.अब्दुल-कलामः

डा.ए.पी.जे.अब्दुल-कलामः न केवलं भारतस्य अपितु विश्वस्य प्रसिद्धः वैज्ञानिकः अस्ति।सः न केवलं वैज्ञानिकः अपितु विनम्रः, मृदुभाषी,कविः,लोकप्रियः व्यक्तिः अस्ति।  डा.ए.पी.जे.अब्दुल-कलाममहाशयस्य जन्म तामीलनाडुराज्यस्य रामेश्वरनाम्नि नगरे सामान्यमुस्लीमपरिवारे अभवत्।तस्य पितुः नाम जैनुलबद्दीनः मातुः नाम आशियम्मा च ।

सः तस्य प्राथमिकी शिक्षा रामेश्वरनगरे एव गृहितवान्।तस्य उच्चशिक्षायाः विषयः विमानशास्त्रम् आसीत्।पृथ्वी-नाग-आकाश-अग्नि-इत्यादीनां निर्माणे अस्य प्रमुखः योगदानः आसीत्।सः न केवलं वैज्ञानिकः अपितु आधुनिकः दार्शनिकः अपि अस्ति। संस्कृतवाङ्गमयस्य प्रभावः तस्य लेखने स्पष्टमेव दृश्यते।

सः बालकेषु अत्यंतप्रियः व्यक्तिमत्वः अस्ति।तस्य रक्षाक्षेत्रे महत्वपूर्णं कार्यं अवलोक्य भारतसर्वकारः अस्मै भारतरत्नम्  अयच्छत्।सः भरतस्य राष्ट्रपतिपदम् अपि भूषितवान्।

स्वामी विवेकानन्दः



स्वामी विवेकानन्दः  

                                   
           स्वामी विवेकानन्दस्य नाम न केवलं सर्वे भारतीयाः जानन्ति अपितु सर्वे विश्वजनाः अपि जानति एव।तस्य जन्म बन्गप्रान्ते १८६३ तमे वर्षे अभवत्। तस्य पूर्वनाम नरेन्द्रः आसीत्। तस्य पितुः नाम विश्वनाथदत्तः आसीत्।
             बाल्यकाले एव सः रामकृष्णमहोदयस्य शिष्यत्वं   स्वीकृतवान् तत्र एव तस्य नाम विवेकानन्दः अभवत्।सः सम्पूर्णभारतवर्षे भ्रमणं कृतवान् ।सः सर्वत्र भारतीयसंस्कृतेः प्रचारं प्रसारं कृतवान्।समाजस्य भेदभावं निवारयितुं जनान् सम्बोधितवान्। समाजः राष्ट्रं च कथं सुदृढं तिष्ठेत् तदर्थम् ऐक्यभावस्य निर्माणार्थं सः भारते अटनं कृतवान्।
            १८९३ वर्षे अमेरिका देशे शिकागो नगरे विश्वधर्मसम्मेलनम् अभवत्।तत्र सः भारतस्य हिन्दुधर्मस्य प्रतिनिधिः आसीत्।यदा सः भाषणे जनान् मम बन्धुभगिन्यः सम्भोधितवान् तदा श्रोतारः अतीव उल्लासिताः भूत्वा करताडनम् अकूर्वन्।
           अयं महापुरुषः लोकसेवां उद्दिश्य रामकृष्णमिशनइति संस्थायाः स्थापनां कृतवान्।सम्पूर्णे  जीवने सः दीनानां पीडितजनानां सेवां कृतवान्। एषः महापुरुषः १९०२ वर्षे जुलाईमासस्य चतुर्थे दिनाङ्के निर्वाणं प्राप्तवान्।