देशभक्तः महाराणा प्रतापः
महाराणा प्रतापः
राजस्थानराज्ये स्थिते मेवाडराज्यस्य राजा आसीत् ।सः तु अतीव देशभक्तः आसीत् ।१५७६
तमे वर्षे हल्दीघाटी नामके स्थाने सः अकबरस्यसेनया सह युद्धम् कृतवान् ।अस्मिन् युद्धे
सः पराजितः अभवत्।तस्यप्रसिद्धःअश्वःचेतकः अपि अस्मिन् युद्धे अमरत्।
अनन्तरम्
प्रतापः दिश्वस्तैः सैनिकैः सह् राजप्रासादं परित्यज्य अटव्याम् अवसत्।सः वने स्थित्वा
देशस्य स्वतंत्रतायै प्रयत्नशीलः आसीत्।वने प्रतापः निराशः आसीत्।तस्य पार्श्वे धनस्य
सेनायाः अभावः आसीत्।प्रतापस्य वदनं दृष्ट्वा सैनिकाः अपि व्याकुलाः आसन्।अस्मिन् कठिनसमये
प्रतापः देशत्यागं कर्तुम् इच्छति स्म। तस्य भटाः अपि तेन सह देशत्यागं कर्तुम् इच्छति।
यावत् प्रतापः
देशत्यागं कर्तुम् इच्छति तावत् एव् श्रेष्ठी भामाशाहः तस्य धनेन सह तत्र आगच्छति।भामाशाहः
तस्य सम्पतिम् देशरक्षायै प्रतापाय यच्छति । प्रतापः धनं प्राप्य मेवाडस्य स्वतंत्रतायै
उत्साहितः भवति । तत्र उपस्थिताः सैनिकाः भामाशाहस्य
प्रतापस्य च जयघोषं कुर्वन्ति।
प्रतापः तेन
धनेन पुनः सेनायाः संगठनं करोति।पुनः मुगलसेनया सह युद्धं करोति।अस्मिन् युद्धे प्रतापः
विजयी भवति।
प्रतापस्य
वीरतया मेवाडः पुनः स्वतन्त्रः भवति।मेवाडस्य जनाः स्वगृहे दीपान् प्रज्वालयन्ति नृत्यन्ति
गायन्ति च ।जनाः प्रतापस्य जयघोषम् अपि कुर्वन्ति
।