अद्यत्वे संगणकस्य प्रचारः अखिले संसारे भवति ।अधुना संगणकं विना विश्वस्य कल्पना अपि कर्तुं न शक्यते ।संगणकम् तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् च यन्त्रम् अस्ति |टङ्कण-मुद्रण-संचार-चिकित्सा -सैन्य-यातायात-विज्ञानादिक्षेत्रेषु अस्य व्यापकः प्रभावः अस्ति | अस्य गणनाशक्तिः स्मरणशक्तिः च असाधारणा अस्ति | आधुनिकयुगस्य अयं कल्पवृक्षः एव |
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें