बुधवार, 18 सितंबर 2013

क्रिकेट-क्रीडा

क्रिकेट-क्रीडा

 क्रिकेटक्रीडा भारतीयानां  प्रिया क्रीडा अस्ति |न केवलं लघुबालबालिकाः  अपितु युवकाः वृद्धाः सर्वे एव क्रीडन्ति पश्यन्ति च |
इयं क्रीडा ब्रिटीशजनानां संशोधिता | अतः ते जनाः यत्र यत्र गताः तत्र तत्र प्रसारं कृतवन्तः | अधुना तु स्थाने स्थाने क्रिकेटप्रतियोगिताः आयोज्यन्ते | अस्यां क्रीडायां द्वौ पक्षौ भवतः | प्रतिपक्षे एकादशक्रीडकाः क्रीडन्ति |सर्वे क्रीडकाः धावनानि (रणानि)सञ्चितानि कुर्वन्ति|
 अस्माकं देशः एकदिवसीयां  क्रिकेटक्रीडां सम्यक् प्रदर्शनं करोति |

मंगलवार, 17 सितंबर 2013

संगणकः

संगणकः 

अद्यत्वे संगणकस्य प्रचारः अखिले संसारे भवति ।अधुना संगणकं विना विश्वस्य कल्पना अपि कर्तुं शक्यते ।संगणकम्  तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् यन्त्रम् अस्ति |टङ्कण-मुद्रण-संचार-चिकित्सा -सैन्य-यातायात-विज्ञानादिक्षेत्रेषु अस्य व्यापकः प्रभावः अस्ति | अस्य गणनाशक्तिः स्मरणशक्तिः असाधारणा अस्ति | आधुनिकयुगस्य अयं कल्पवृक्षः एव |

आधुनिकं विज्ञानम्

आधुनिकं विज्ञानम् 

एतद् युगं विज्ञानस्य कथ्यते |वैज्ञानिकाः रात्रंदिनम् प्रयत्नं कृत्वा जनेभ्यः सुखसाधनानि
यच्छन्ति |विज्ञानसहायेन वयं मानवाः न केवलं स्थलचराः अपितु जलचराः अपि भवामः|
आधुनिकं वायुयानस्य कल्पना रामायणस्य पुष्पकविमानेन सह कर्तुं शक्नुमः|
 कार वा बसयानेन अस्माकं यात्रा सुखेन भवति |वायुयानेन वयं देशात् अन्य देशे गन्तुं शक्नुमः |

रेलयानम्

 रेलयानम्



रेलयानम् विज्ञानस्य अभुतपूर्वम्  उपलब्धि भवति  |प्रथमतः एतद् यानं बाष्पशक्तिना चलति स्म | यदा
भारते ब्रिटिषजनाः आगच्छन् तदा ते 1852 तमे ख्रिस्ताब्दे अस्य प्रथमम्  मार्गं  मुम्बईनगरस्य समीपे अस्थापयन् |किन्तु अधुना तु विद्युत्शक्तिना एतद् द्रुत-अतिद्रुतवेगेन धावति |एतस्य कृते संपूर्णे भारते लोहपथानां निर्माणम् अभवत् |अतः एतद् लोहापथगामिनी अपि कथ्यते |प्रतिदिवसे लक्षाधिकं जनाः रेलयानेन एव भारते आवागमनं कुर्वन्ति | एतद् अधुना सङ्गणकेन नियन्त्रितम् भवति |